वांछित मन्त्र चुनें
आर्चिक को चुनें

त्रि꣣पा꣢दू꣣र्ध्व꣢꣫ उदै꣣त्पु꣡रु꣢षः꣣ पादो꣢ऽस्ये꣣हा꣡भ꣢व꣣त्पु꣡नः꣢ । त꣢था꣣ वि꣢ष्व꣣꣬ङ् व्य꣢꣯क्रामदशनानश꣣ने꣢ अ꣣भि꣢ ॥६१८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः । तथा विष्वङ् व्यक्रामदशनानशने अभि ॥६१८॥

मन्त्र उच्चारण
पद पाठ

त्रि꣣पा꣢त् । त्रि꣣ । पा꣢त् । ऊ꣣र्ध्वः꣢ । उत् । ऐ꣣त् । पु꣡रु꣢꣯षः । पा꣡दः꣢꣯ । अ꣣स्य । इह꣢ । अ꣣भवत् । पु꣢न꣣रि꣡ति꣢ । त꣡था꣢꣯ । वि꣡ष्व꣢꣯ङ् । वि । स्व꣣ङ् । वि꣢ । अ꣣क्रामत् । अशनानशने꣢ । अ꣣शन । आनशने꣡इति꣢ । अ꣣भि꣢ ॥६१८॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 618 | (कौथोम) 6 » 3 » 4 » 4 | (रानायाणीय) 6 » 4 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः उसी परमपुरुष का वर्णन है।

पदार्थान्वयभाषाः -

(त्रिपात्) तीन-चौथाई अंशवाला (पुरुषः) पूर्वोक्त परमेश्वर (ऊर्ध्वः उत् ऐत्) इस जगत् से ऊपर उठा हुआ है। (इह पुनः) इस जगत् में तो (अस्य) इस पूर्ण परमेश्वर का (पादः) एक-चतुर्थांश ही (अभवत्) विद्यमान है। (तथा) उसी प्रकार से अर्थात् एक-चतुर्थांश की ही व्याप्ति से (वि-स्वङ्) विविध पदार्थों में सम्यक् प्राप्त हुआ वह (अशनानशने अभि) चेतन-अचेतन को लक्ष्य करके (व्यक्रामत्) विविध रुप से चेष्टा कर रहा है, अर्थात् मनुष्य आदि प्राणियों तथा अग्नि, सूर्य, पवन, पर्वत, नदी आदि चेतन-अचेतन के यथायोग्य प्राणन आदि व्यापार को तथा स्थिति आदि व्यापार को कर रहा है ॥४॥

भावार्थभाषाः -

इस चेतन-अचेतन-रूप जगत् में जो महान् कर्तृत्व दृष्टिगोचर हो रहा है, उसमें परमेश्वर के सामर्थ्य का थोड़ा-सा अंश ही क्रियाशील है, परमेश्वर का वास्तविक सामर्थ्य और स्वरूप तो लोकातिक्रान्त है ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तमेव परमपुरुषं वर्णयति।

पदार्थान्वयभाषाः -

(त्रिपात्) त्रि-चतुर्थाशः (पुरुषः) पूर्वोक्तः परमेश्वरः (ऊर्ध्वः उत्-ऐत्) अस्माज्जगतः ऊर्ध्वम् उद्गतोऽस्ति, (इह पुनः) अस्मिन् संसारे तु (अस्य) पूर्णस्य परमेश्वरस्य (पादः) एकश्चतुर्थांश एव (अभवत्) विद्यते। (तथा) तेनैव प्रकारेण एकचतुर्थांशव्याप्त्या इत्यर्थः (वि-स्वङ्२) विविधपदार्थान् सम्यक् प्राप्तः सन्। वि विविधतया सु सम्यग् अञ्चतीति विष्वङ्। (अशनानशने अभि) चेतनाचेतने अभिलक्ष्य। अश्नाति भोगान् भुङ्क्ते इति अशनं चेतनं तद्भिन्नम् अनशनं, ते अशनानशने। (व्यक्रामत्) विचेष्टते, चेतनाचेतनानां मनुष्यादिप्राणिनाम् अग्निसूर्यपवनगिरिनद्यादीनां च यथायोग्यं प्राणनादिव्यापारं स्थित्यादिव्यापारं च विधत्ते इति भावः ॥४॥३

भावार्थभाषाः -

चेतनाचेतनात्मकेऽस्मिन् जगति यन्महत् कर्तृत्वं दृष्टिगोचरतां याति तत्र परमेश्वरसामर्थ्यस्य स्वल्पांश एव क्रियाशीलो भवति, परमेश्वरस्य वास्तवं सामर्थ्यं स्वरूपं च लोकातिगं वर्तते ॥४॥

टिप्पणी: १. ऋ० १०।९०।४, य० ३१।४ उभयत्र ‘ततो विष्वङ् व्यक्रामत् साशनानशने अभि’ इति पाठः। अथ० १९।६।२ ‘त्रिभिः पद्भिर्द्यामरोहत् पादस्येहाभवत् पुनः। तथा व्यक्रामद् विष्वङशनानशने अनु’ ॥ इति पाठः। २. विष्वङ् देवतिर्यगादिरूपेण विविधः सन्—इति सा०। विषु सर्वत्राञ्चतीति विष्वङ् देवतिर्यगादिरूपेण विविधः सन्—इति यजुर्भाष्ये म०। यो विषु सर्वत्राञ्चति प्राप्नोति—इति तत्रैव द०। अस्माभिस्तु वि-स्वङ् इति पदपाठः आदृतः। ३. दयानन्दर्षिरपि मन्त्रमेतं यजुर्भाष्ये परमेश्वरपक्षे व्याख्यातवान्।